Original

व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः ।गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ।ऊचुर्विगतसंत्रासाः समागम्य परस्परम् ॥ ११ ॥

Segmented

व्रजतस् तान् विदित्वा तु पौराः शोक-अभिपीडिताः गर्हयन्तो ऽसकृद् भीष्म-विदुर-द्रोण-गौतमान् ऊचुः विगत-संत्रासाः समागम्य परस्परम्

Analysis

Word Lemma Parse
व्रजतस् व्रज् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
विदित्वा विद् pos=vi
तु तु pos=i
पौराः पौर pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
अभिपीडिताः अभिपीडय् pos=va,g=m,c=1,n=p,f=part
गर्हयन्तो गर्हय् pos=va,g=m,c=1,n=p,f=part
ऽसकृद् असकृत् pos=i
भीष्म भीष्म pos=n,comp=y
विदुर विदुर pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
गौतमान् गौतम pos=n,g=m,c=2,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
विगत विगम् pos=va,comp=y,f=part
संत्रासाः संत्रास pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s