Original

कालस्य नयने युक्ता यमस्य पुरुषाश्च ये ।तस्यां शिंशपपालाशास्तथा काशकुशादयः ।उपासते धर्मराजं मूर्तिमन्तो निरामयाः ॥ २९ ॥

Segmented

कालस्य नयने युक्ता यमस्य पुरुषाः च ये तस्याम् शिंशप-पालाशाः तथा काश-कुश-आदयः उपासते धर्मराजम् मूर्तिमन्तो निरामयाः

Analysis

Word Lemma Parse
कालस्य काल pos=n,g=m,c=6,n=s
नयने नयन pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
यमस्य यम pos=n,g=m,c=6,n=s
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
शिंशप शिंशपा pos=n,comp=y
पालाशाः पालाश pos=n,g=m,c=1,n=p
तथा तथा pos=i
काश काश pos=n,comp=y
कुश कुश pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
उपासते उपास् pos=v,p=3,n=s,l=lat
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
मूर्तिमन्तो मूर्तिमत् pos=a,g=m,c=1,n=p
निरामयाः निरामय pos=a,g=m,c=1,n=p