Original

युधिष्ठिर उवाच ।आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ।राजानं सोमदत्तं च महाराजं च बाह्लिकम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच आमन्त्रयामि भरतान् तथा वृद्धम् पितामहम् राजानम् सोमदत्तम् च महा-राजम् च बाह्लिकम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आमन्त्रयामि आमन्त्रय् pos=v,p=1,n=s,l=lat
भरतान् भरत pos=n,g=m,c=2,n=p
तथा तथा pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s