Original

अर्जुन उवाच ।नैव वाचा व्यवसितं भीम विज्ञायते सताम् ।इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥ ३० ॥

Segmented

अर्जुन उवाच न एव वाचा व्यवसितम् भीम विज्ञायते सताम् इतस् चतुर्दशे वर्षे द्रष्टारो यद् भविष्यति

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
भीम भीम pos=n,g=m,c=8,n=s
विज्ञायते विज्ञा pos=v,p=3,n=s,l=lat
सताम् सत् pos=a,g=m,c=6,n=p
इतस् इतस् pos=i
चतुर्दशे चतुर्दश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
द्रष्टारो दृश् pos=v,p=3,n=p,l=lrt
यद् यद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt