Original

तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् ।उवाचेदं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम् ॥ १५ ॥

Segmented

तद् वै श्रुत्वा भीमसेनो अति अमर्षी निर्भर्त्स्य उच्चैस् तम् निगृह्य एव रोषात् उवाच इदम् सहसा एव उपगम्य सिंहो यथा हैमवतः शृगालम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
श्रुत्वा श्रु pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
अति अति pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
निर्भर्त्स्य निर्भर्त्सय् pos=vi
उच्चैस् उच्चैस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
निगृह्य निग्रह् pos=vi
एव एव pos=i
रोषात् रोष pos=n,g=m,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
एव एव pos=i
उपगम्य उपगम् pos=vi
सिंहो सिंह pos=n,g=m,c=1,n=s
यथा यथा pos=i
हैमवतः हैमवत pos=a,g=m,c=1,n=s
शृगालम् शृगाल pos=n,g=m,c=2,n=s