Original

किं पाण्डवांस्त्वं पतितानुपास्से मोघः श्रमः षण्ढतिलानुपास्य ।एवं नृशंसः परुषाणि पार्थानश्रावयद्धृतराष्ट्रस्य पुत्रः ॥ १४ ॥

Segmented

किम् पाण्डवान् त्वम् पतितान् उपास्से मोघः श्रमः षण्ढतिलान् उपास्य एवम् नृशंसः परुषाणि पार्थान् अश्रावयद् धृतराष्ट्रस्य पुत्रः

Analysis

Word Lemma Parse
किम् किम् pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
उपास्से उपास् pos=v,p=2,n=s,l=lat
मोघः मोघ pos=a,g=m,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
षण्ढतिलान् षण्ढतिल pos=n,g=m,c=2,n=p
उपास्य उपास् pos=vi
एवम् एवम् pos=i
नृशंसः नृशंस pos=a,g=m,c=1,n=s
परुषाणि परुष pos=a,g=n,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अश्रावयद् श्रावय् pos=v,p=3,n=s,l=lan
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s