Original

ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् ।अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ॥ १५ ॥

Segmented

ते तु आस्थाय रथान् सर्वे बहु-शस्त्र-परिच्छदान् अभिघ्नन्तो रथ-व्रातान् सेना-योगाय निर्ययुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
आस्थाय आस्था pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
परिच्छदान् परिच्छद pos=n,g=m,c=2,n=p
अभिघ्नन्तो अभिहन् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
सेना सेना pos=n,comp=y
योगाय योग pos=n,g=m,c=4,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit