Original

जनमेजय उवाच ।अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान् ।पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥ १ ॥

Segmented

जनमेजय उवाच अनुज्ञातान् तान् विदित्वा स रत्न-धन-संचयान् पाण्डवान् धार्तराष्ट्राणाम् कथम् आसीत् मनः तदा

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुज्ञातान् अनुज्ञा pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
विदित्वा विद् pos=vi
pos=i
रत्न रत्न pos=n,comp=y
धन धन pos=n,comp=y
संचयान् संचय pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=1,n=s
तदा तदा pos=i