Original

स्वप्ने यथैतद्धि धनं जितं स्यात्तदेवं मन्ये यस्य दीव्यत्यनीशः ।गान्धारिपुत्रस्य वचो निशम्य धर्मादस्मात्कुरवो मापयात ॥ १९ ॥

Segmented

स्वप्ने यथा एतत् हि धनम् जितम् स्यात् तद् एवम् मन्ये यस्य दीव्यति अनीशः गान्धारी-पुत्रस्य वचो निशम्य धर्माद् अस्मात् कुरवो मा अपयात

Analysis

Word Lemma Parse
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
धनम् धन pos=n,g=n,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
दीव्यति दीव् pos=v,p=3,n=s,l=lat
अनीशः अनीश pos=a,g=m,c=1,n=s
गान्धारी गान्धारी pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
धर्माद् धर्म pos=n,g=m,c=5,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
कुरवो कुरु pos=n,g=m,c=8,n=p
मा मा pos=i
अपयात अपया pos=v,p=2,n=p,l=lot