Original

क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः ।वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥ १५ ॥

Segmented

क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावक-अर्चिषः वृक्षस्य इव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः

Analysis

Word Lemma Parse
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
स्रोतोभ्यः स्रोतस् pos=n,g=n,c=5,n=p
सर्वेभ्यः सर्व pos=n,g=n,c=5,n=p
पावक पावक pos=n,comp=y
अर्चिषः अर्चिस् pos=n,g=f,c=1,n=p
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
इव इव pos=i
विनिश्चेरुः विनिश्चर् pos=v,p=3,n=p,l=lit
कोटरेभ्यः कोटर pos=n,g=m,c=5,n=p
प्रदह्यतः प्रदह् pos=va,g=m,c=6,n=s,f=part