Original

ततः सभ्याः कुरुराजस्य तत्र वाक्यं सर्वे प्रशशंसुस्तदोच्चैः ।चेलावेधांश्चापि चक्रुर्नदन्तो हा हेत्यासीदपि चैवात्र नादः ।सर्वे चासन्पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥ २८ ॥

Segmented

ततः सभ्याः कुरु-राजस्य तत्र वाक्यम् सर्वे प्रशशंसुः तदा उच्चैस् चेल-आवेधान् च अपि चक्रुः नदन्तो हा हा इति आसीत् अपि च एव अत्र नादः सर्वे च आसन् पार्थिवाः प्रीतिमन्तः कुरु-श्रेष्ठम् धार्मिकम् पूजयन्तः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सभ्याः सभ्य pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
उच्चैस् उच्चैस् pos=i
चेल चेल pos=n,comp=y
आवेधान् आवेध pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
हा हा pos=i
हा हा pos=i
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अपि अपि pos=i
pos=i
एव एव pos=i
अत्र अत्र pos=i
नादः नाद pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
प्रीतिमन्तः प्रीतिमत् pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
पूजयन्तः पूजय् pos=va,g=m,c=1,n=p,f=part