Original

सभ्यास्तु ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैव ।तेषामभूद्दुःखमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम् ॥ ३९ ॥

Segmented

सभ्याः तु ये तत्र बभूवुः अन्ये ताभ्याम् ऋते धार्तराष्ट्रेण च एव तेषाम् अभूद् दुःखम् अतीव कृष्णाम् दृष्ट्वा सभायाम् परिकृष्यमाणाम्

Analysis

Word Lemma Parse
सभ्याः सभ्य pos=n,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
ताभ्याम् तद् pos=n,g=m,c=5,n=d
ऋते ऋते pos=i
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अभूद् भू pos=v,p=3,n=s,l=lun
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सभायाम् सभा pos=n,g=f,c=7,n=s
परिकृष्यमाणाम् परिकृष् pos=va,g=f,c=2,n=s,f=part