Original

युधिष्ठिर उवाच ।अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः ।ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ २२ ॥

Segmented

युधिष्ठिर उवाच अश्वान् तित्तिरि-कल्माषान् गान्धर्वान् हेम-मालिन् ददौ चित्ररथः तुष्टः यान् तान् गाण्डीवधन्वने एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
तित्तिरि तित्तिरि pos=n,comp=y
कल्माषान् कल्माष pos=a,g=m,c=2,n=p
गान्धर्वान् गान्धर्व pos=a,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
मालिन् मालिन् pos=a,g=m,c=2,n=p
ददौ दा pos=v,p=3,n=s,l=lit
चित्ररथः चित्ररथ pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
यान् यद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
गाण्डीवधन्वने गाण्डीवधन्वन् pos=n,g=m,c=4,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s