Original

नाभिनन्दामि नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद्बिभेमि ।पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्यादेतच्छङ्के द्यूतकृते नरेन्द्र ॥ २४ ॥

Segmented

न अभिनन्दामि नृपते प्रैषम् एतम् मा एवम् कृथाः कुल-नाशात् बिभेमि पुत्रैः भिन्नैः कलहः ते ध्रुवम् स्याद् एतत् शङ्के द्यूत-कृते नरेन्द्र

Analysis

Word Lemma Parse
pos=i
अभिनन्दामि अभिनन्द् pos=v,p=1,n=s,l=lat
नृपते नृपति pos=n,g=m,c=8,n=s
प्रैषम् प्रैष pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
मा मा pos=i
एवम् एवम् pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
कुल कुल pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
बिभेमि भी pos=v,p=1,n=s,l=lat
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
भिन्नैः भिद् pos=va,g=m,c=3,n=p,f=part
कलहः कलह pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एतत् एतद् pos=n,g=n,c=2,n=s
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
द्यूत द्यूत pos=n,comp=y
कृते कृते pos=i
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s