Original

सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महार्हैः ।सा दृश्यतां भ्रातृभिः सार्धमेत्य सुहृद्द्यूतं वर्ततामत्र चेति ॥ २१ ॥

Segmented

सभा इयम् मे बहु-रत्ना विचित्रा शय्या-आसनैः उपपन्ना महार्हैः सा दृश्यताम् भ्रातृभिः सार्धम् एत्य सुहृद्-द्यूतम् वर्तताम् अत्र च इति

Analysis

Word Lemma Parse
सभा सभा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
बहु बहु pos=a,comp=y
रत्ना रत्न pos=n,g=f,c=1,n=s
विचित्रा विचित्र pos=a,g=f,c=1,n=s
शय्या शय्या pos=n,comp=y
आसनैः आसन pos=n,g=n,c=3,n=p
उपपन्ना उपपद् pos=va,g=f,c=1,n=s,f=part
महार्हैः महार्ह pos=a,g=n,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
एत्य pos=vi
सुहृद् सुहृद् pos=n,comp=y
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
अत्र अत्र pos=i
pos=i
इति इति pos=i