Original

कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम् ।चित्रैर्हैमैरासनैरभ्युपेतामाचख्युस्ते तस्य राज्ञः प्रतीताः ॥ १९ ॥

Segmented

कालेन अल्पेन अथ निष्ठाम् गताम् ताम् सभाम् रम्याम् बहु-रत्नाम् विचित्राम् चित्रैः हैमैः आसनैः अभ्युपेताम् आचख्युः ते तस्य राज्ञः प्रतीताः

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
अल्पेन अल्प pos=a,g=m,c=3,n=s
अथ अथ pos=i
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
बहु बहु pos=a,comp=y
रत्नाम् रत्न pos=n,g=f,c=2,n=s
विचित्राम् विचित्र pos=a,g=f,c=2,n=s
चित्रैः चित्र pos=a,g=n,c=3,n=p
हैमैः हैम pos=a,g=n,c=3,n=p
आसनैः आसन pos=n,g=n,c=3,n=p
अभ्युपेताम् अभ्युपे pos=va,g=f,c=2,n=s,f=part
आचख्युः आख्या pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part