Original

दुर्योधन उवाच ।द्यूते पुराणैर्व्यवहारः प्रणीतस्तत्रात्ययो नास्ति न संप्रहारः ।तद्रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व ॥ १२ ॥

Segmented

दुर्योधन उवाच द्यूते पुराणैः व्यवहारः प्रणीतस् तत्र अत्ययः न अस्ति न संप्रहारः तद् रोचताम् शकुनेः वाक्यम् अद्य सभाम् क्षिप्रम् त्वम् इह आज्ञापयस्व

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्यूते द्यूत pos=n,g=n,c=7,n=s
पुराणैः पुराण pos=a,g=m,c=3,n=p
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
प्रणीतस् प्रणी pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
अत्ययः अत्यय pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
संप्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot
शकुनेः शकुनि pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आज्ञापयस्व आज्ञापय् pos=v,p=2,n=s,l=lot