Original

शकुनिरुवाच ।यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे ।तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः ॥ १ ॥

Segmented

शकुनिः उवाच याम् त्वम् एताम् श्रियम् दृष्ट्वा पाण्डु-पुत्रे युधिष्ठिरे तप्यसे ताम् हरिष्यामि द्यूतेन आहूयताम् परः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
याम् यद् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
तप्यसे तप् pos=v,p=2,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
आहूयताम् आह्वा pos=v,p=3,n=s,l=lot
परः पर pos=n,g=m,c=1,n=s