Original

कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् ॥ २४ ॥

Segmented

कच्चित् सहस्रैः मूर्खाणाम् एकम् क्रीणासि पण्डितम् पण्डितो हि अर्थ-कृच्छ्रेषु कुर्यात् निःश्रेयसम् परम्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
मूर्खाणाम् मूर्ख pos=a,g=m,c=6,n=p
एकम् एक pos=n,g=m,c=2,n=s
क्रीणासि क्री pos=v,p=2,n=s,l=lat
पण्डितम् पण्डित pos=n,g=m,c=2,n=s
पण्डितो पण्डित pos=n,g=m,c=1,n=s
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s