Original

सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च ।अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् ।तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः ॥ १६ ॥

Segmented

सपत्नान् ऋध्यतो ऽऽत्मानम् हीयमानम् निशाम्य च अदृश्याम् अपि कौन्तेये स्थिताम् पश्यन्न् इव उद्यताम् तस्माद् अहम् विवर्णः च दीनः च हरिणः कृशः

Analysis

Word Lemma Parse
सपत्नान् सपत्न pos=n,g=m,c=2,n=p
ऋध्यतो ऋध् pos=va,g=m,c=2,n=p,f=part
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
हीयमानम् हा pos=va,g=m,c=2,n=s,f=part
निशाम्य निशामय् pos=vi
pos=i
अदृश्याम् अदृश्य pos=a,g=f,c=2,n=s
अपि अपि pos=i
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part
तस्माद् तस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
विवर्णः विवर्ण pos=a,g=m,c=1,n=s
pos=i
दीनः दीन pos=a,g=m,c=1,n=s
pos=i
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s