Original

एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् ।अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ॥ ५० ॥

Segmented

एवम् उक्तः स धर्म-आत्मा युधिष्ठिर-सहायवान् अभिगम्य अब्रवीत् प्रीतः पृथाम् पृथु-यशाः हरिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पृथाम् पृथा pos=n,g=f,c=2,n=s
पृथु पृथु pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s