Original

राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः ।प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः ।तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥ ३९ ॥

Segmented

राजानः सर्व एव एते प्रीत्या अस्मान् समुपागताः प्रस्थिताः स्वानि राष्ट्राणि माम् आपृच्छ्य परंतपाः ते ऽनुव्रजत भद्रम् वो विषय-अन्तम् नृप-उत्तमान्

Analysis

Word Lemma Parse
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
समुपागताः समुपागम् pos=va,g=m,c=1,n=p,f=part
प्रस्थिताः प्रस्था pos=va,g=m,c=1,n=p,f=part
स्वानि स्व pos=a,g=n,c=2,n=p
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
माम् मद् pos=n,g=,c=2,n=s
आपृच्छ्य आप्रच्छ् pos=vi
परंतपाः परंतप pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽनुव्रजत अनुव्रज् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
विषय विषय pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p