Original

एवमादि ततः सर्वे सहितास्ते नराधिपाः ।वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ॥ १६ ॥

Segmented

एवमादि ततः सर्वे सहिताः ते नराधिपाः वासुदेव-वचः श्रुत्वा चेदि-राजम् व्यगर्हयन्

Analysis

Word Lemma Parse
एवमादि एवमादि pos=a,g=n,c=2,n=s
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
वासुदेव वासुदेव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
चेदि चेदि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
व्यगर्हयन् विगर्हय् pos=v,p=3,n=p,l=lan