Original

ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ।मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ॥ ५ ॥

Segmented

ततो न व्याजहार एषाम् कश्चिद् बुद्धिमताम् सताम् मानिनाम् बलिनाम् राज्ञाम् मध्ये संदर्शिते पदे

Analysis

Word Lemma Parse
ततो ततस् pos=i
pos=i
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
एषाम् इदम् pos=n,g=m,c=6,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
सताम् सत् pos=a,g=m,c=6,n=p
मानिनाम् मानिन् pos=a,g=m,c=6,n=p
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
संदर्शिते संदर्शय् pos=va,g=n,c=7,n=s,f=part
पदे पद pos=n,g=n,c=7,n=s