Original

यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते ।सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ॥ १८ ॥

Segmented

यस्य बाहु-बलम् स इन्द्राः सुराः सर्व उपासते सो ऽयम् मानुष-वत् नाम हरिः आस्ते अरि-मर्दनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
उपासते उपास् pos=v,p=3,n=p,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मानुष मानुष pos=n,comp=y
वत् वत् pos=i
नाम नाम pos=i
हरिः हरि pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=n,g=m,c=1,n=s