Original

आहृतिं कौशिकाचार्यं यत्नेन महता ततः ।वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा ॥ ३९ ॥

Segmented

आहृतिम् कौशिक-आचार्यम् यत्नेन महता ततः वशे चक्रे महा-बाहुः सुराष्ट्र-अधिपतिम् तथा

Analysis

Word Lemma Parse
आहृतिम् आहृति pos=n,g=m,c=2,n=s
कौशिक कौशिक pos=n,comp=y
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
ततः ततस् pos=i
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सुराष्ट्र सुराष्ट्र pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
तथा तथा pos=i