Original

एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् ।विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ॥ ३० ॥

Segmented

एवम् उक्त्वा तु माद्रेयः कुशैः आस्तीर्य मेदिनीम् विधिवत् पुरुष-व्याघ्रः पावकम् प्रत्युपाविशत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
माद्रेयः माद्रेय pos=n,g=m,c=1,n=s
कुशैः कुश pos=n,g=m,c=3,n=p
आस्तीर्य आस्तृ pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
विधिवत् विधिवत् pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
प्रत्युपाविशत् प्रत्युपविश् pos=v,p=3,n=s,l=lan