Original

एवं बहुविधान्देशान्विजित्य पुरुषर्षभः ।उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् ।पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ॥ ५ ॥

Segmented

एवम् बहुविधान् देशान् विजित्य पुरुष-ऋषभः उन्नाटम् अभितो जिग्ये कुक्षिमन्तम् च पर्वतम् पाण्डवः सु महा-वीर्यः बलेन बलिनाम् वरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
विजित्य विजि pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
उन्नाटम् उन्नाट pos=n,g=m,c=2,n=s
अभितो अभितस् pos=i
जिग्ये जि pos=v,p=3,n=s,l=lit
कुक्षिमन्तम् कुक्षिमन्त् pos=n,g=m,c=2,n=s
pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s