Original

वैशंपायन उवाच ।ततः कुमारविषये श्रेणिमन्तमथाजयत् ।कोसलाधिपतिं चैव बृहद्बलमरिंदमः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः कुमार-विषये श्रेणिमन्तम् अथ अजयत् कोसल-अधिपतिम् च एव बृहद्बलम् अरिंदमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कुमार कुमार pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
श्रेणिमन्तम् श्रेणिमन्त् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
कोसल कोसल pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s