Original

स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् ।अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ॥ १३ ॥

Segmented

स तैः परिवृतः सर्वैः विष्वगश्वम् नराधिपम् अभ्यगच्छत् महा-तेजाः पौरवम् पुरुष-ऋषभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
विष्वगश्वम् विष्वगश्व pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पौरवम् पौरव pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s