Original

ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा ।रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥ १९ ॥

Segmented

ततः कृष्णम् महा-बाहुम् भ्रातृभ्याम् सहितम् तदा रथ-स्थम् मागधा दृष्ट्वा समपद्यन्त विस्मिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=3,n=d
सहितम् सहित pos=a,g=m,c=2,n=s
तदा तदा pos=i
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
मागधा मागध pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part