Original

एनमासाद्य राजानः समृद्धबलवाहनाः ।विनाशमुपयास्यन्ति शलभा इव पावकम् ॥ १५ ॥

Segmented

एनम् आसाद्य राजानः समृद्ध-बल-वाहनाः विनाशम् उपयास्यन्ति शलभा इव पावकम्

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
राजानः राजन् pos=n,g=m,c=1,n=p
समृद्ध समृध् pos=va,comp=y,f=part
बल बल pos=n,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
विनाशम् विनाश pos=n,g=m,c=2,n=s
उपयास्यन्ति उपया pos=v,p=3,n=p,l=lrt
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s