Original

व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः ।इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ॥ ३१ ॥

Segmented

व्यतीत्य विविधान् देशान् त्वरावान् क्षिप्र-वाहनः इन्द्रप्रस्थ-गतम् पार्थम् अभ्यगच्छत् जनार्दनः

Analysis

Word Lemma Parse
व्यतीत्य व्यती pos=vi
विविधान् विविध pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
त्वरावान् त्वरावत् pos=a,g=m,c=1,n=s
क्षिप्र क्षिप्र pos=a,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
इन्द्रप्रस्थ इन्द्रप्रस्थ pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s