Original

तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा ।साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः ॥ १३ ॥

Segmented

तस्य यज्ञस्य समयः स्वाधीनः क्षत्र-संपदा साम्ना षड् अग्नयो यस्मिन् चीयन्ते संशित-व्रतैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
समयः समय pos=n,g=m,c=1,n=s
स्वाधीनः स्वाधीन pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
षड् षष् pos=n,g=m,c=1,n=p
अग्नयो अग्नि pos=n,g=m,c=1,n=p
यस्मिन् यद् pos=n,g=n,c=7,n=s
चीयन्ते चि pos=v,p=3,n=p,l=lat
संशित संशित pos=a,comp=y
व्रतैः व्रत pos=n,g=m,c=3,n=p