Original

ततो देवनिकायस्थो नारदः सर्वलोकवित् ।उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥ २५ ॥

Segmented

ततो देवनिकाय-स्थः नारदः सर्व-लोक-विद् उवाच उच्चैस् तदा वाक्यम् बृहत्-वादी बृहत्-तपाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवनिकाय देवनिकाय pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बृहत् बृहत् pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s