Original

ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् ।गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा ॥ १७ ॥

Segmented

ततो ऽनुमान्य धर्म-आत्मा पौर-जानपदम् जनम् गमनाय मतिम् चक्रे भ्रातरः च अस्य ते तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनुमान्य अनुमानय् pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पौर पौर pos=n,comp=y
जानपदम् जानपद pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
गमनाय गमन pos=n,g=n,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i