Original

तपश्चरिष्यामि निबोध तन्मे रामेण सार्धं वनमभ्युपेत्य ।इतीदमुक्त्वा शिरसास्य पादौ संस्पृश्य कृष्णस्त्वरितो जगाम ॥ ९ ॥

Segmented

तपः चरिष्यामि निबोध तत् मे रामेण सार्धम् वनम् अभ्युपेत्य इति इदम् उक्त्वा शिरसा अस्य पादौ संस्पृश्य कृष्णः त्वरितः जगाम

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
रामेण राम pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
वनम् वन pos=n,g=n,c=2,n=s
अभ्युपेत्य अभ्युपे pos=vi
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
संस्पृश्य संस्पृश् pos=vi
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit