Original

मत्वात्मानमपराद्धं स तस्य जग्राह पादौ शिरसा चार्तरूपः ।आश्वासयत्तं महात्मा तदानीं गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ॥ २१ ॥

Segmented

मत्वा आत्मानम् अपराद्धम् स तस्य जग्राह पादौ शिरसा च आर्त-रूपः आश्वासयत् तम् महात्मा तदानीम् गच्छन्न् ऊर्ध्वम् रोदसी व्याप्य लक्ष्म्या

Analysis

Word Lemma Parse
मत्वा मन् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपराद्धम् अपराध् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पादौ पाद pos=n,g=m,c=2,n=d
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
आश्वासयत् आश्वासय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तदानीम् तदानीम् pos=i
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
ऊर्ध्वम् ऊर्ध्वम् pos=i
रोदसी रोदस् pos=n,g=n,c=2,n=d
व्याप्य व्याप् pos=vi
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s