Original

वैशंपायन उवाच ।ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः ।अथापश्यन्राममनन्तवीर्यं वृक्षे स्थितं चिन्तयानं विविक्ते ॥ १ ॥

Segmented

वैशंपायन उवाच ततो ययुः दारुकः केशवः च बभ्रुः च रामस्य पदम् पतन्तः अथ अपश्यन् रामम् अनन्त-वीर्यम् वृक्षे स्थितम् चिन्तयानम् विविक्ते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ययुः या pos=v,p=3,n=p,l=lit
दारुकः दारुक pos=n,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
pos=i
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
पतन्तः पत् pos=va,g=m,c=1,n=p,f=part
अथ अथ pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
रामम् राम pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
चिन्तयानम् चिन्तय् pos=va,g=m,c=2,n=s,f=part
विविक्ते विविक्त pos=n,g=n,c=7,n=s