Original

इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः ।गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् ॥ २१ ॥

Segmented

इति उक्त्वा स तु धर्म-आत्मा वृद्धो राजा कुरु-उद्वहः गान्धारीम् शिश्रिये धीमान् सहसा एव गतासु-वत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
शिश्रिये श्रि pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
सहसा सहसा pos=i
एव एव pos=i
गतासु गतासु pos=a,comp=y
वत् वत् pos=i