Original

अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः ।ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ।भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ॥ ४१ ॥

Segmented

अहो धिग् इति राजा तु विक्रुश्य भृश-दुःखितः ऊर्ध्व-बाहुः स्मरन् मातुः प्ररुरोद युधिष्ठिरः भीमसेन-पुरोगाः च भ्रातरः सर्व एव ते

Analysis

Word Lemma Parse
अहो अहो pos=i
धिग् धिक् pos=i
इति इति pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
विक्रुश्य विक्रुश् pos=vi
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
मातुः मातृ pos=n,g=f,c=6,n=s
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p