Original

एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः ।प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥ २१ ॥

Segmented

एवम् क्रमेण सर्वाः ताः शीलवत्यः कुलस्त्रियः प्रविश्य तोयम् निर्मुक्ता जग्मुः भर्तृ-सलोकताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
क्रमेण क्रमेण pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
शीलवत्यः शीलवत् pos=a,g=f,c=1,n=p
कुलस्त्रियः कुलस्त्री pos=n,g=f,c=1,n=p
प्रविश्य प्रविश् pos=vi
तोयम् तोय pos=n,g=n,c=2,n=s
निर्मुक्ता निर्मुच् pos=va,g=f,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
भर्तृ भर्तृ pos=n,comp=y
सलोकताम् सलोकता pos=n,g=f,c=2,n=s