Original

वैशंपायन उवाच ।इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा ।महता सिंहनादेन गङ्गामभिमुखो ययौ ॥ १९ ॥

Segmented

वैशंपायन उवाच इति व्यासस्य वचनम् श्रुत्वा सर्वो जनः तदा महता सिंहनादेन गङ्गाम् अभिमुखो ययौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
व्यासस्य व्यास pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वो सर्व pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
तदा तदा pos=i
महता महत् pos=a,g=m,c=3,n=s
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अभिमुखो अभिमुख pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit