Original

पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा ।उत्सृज्य सुमहार्हाणि शयनानि नराधिप ॥ ३ ॥

Segmented

पाण्डवाः तु अभितस् मातुः धरण्याम् सुषुपुः तदा उत्सृज्य सु महार्हानि शयनानि नराधिप

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
अभितस् अभितस् pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
धरण्याम् धरणी pos=n,g=f,c=7,n=s
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
उत्सृज्य उत्सृज् pos=vi
सु सु pos=i
महार्हानि महार्ह pos=a,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s