Original

सा ह्यग्रेऽगच्छत तयोर्दंपत्योर्हतपुत्रयोः ।कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ॥ १२ ॥

Segmented

सा हि अग्रे ऽगच्छत तयोः दंपत्योः हत-पुत्रयोः कर्षन्ती तौ ततस् ते ताम् दृष्ट्वा संन्यपतन् भुवि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
ऽगच्छत गम् pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
दंपत्योः दम्पति pos=n,g=m,c=6,n=d
हत हन् pos=va,comp=y,f=part
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d
कर्षन्ती कृष् pos=va,g=f,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=2,n=d
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
संन्यपतन् संनिपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s