Original

एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः ।योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ॥ १६ ॥

Segmented

एषा ते ऽस्तु मतिः नित्यम् धर्मे ते रमताम् मनः यो ऽद्य त्वम् अस्मान् राज-इन्द्र श्रेयसा योजयिष्यसि

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
मतिः मति pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
रमताम् रम् pos=v,p=3,n=s,l=lot
मनः मनस् pos=n,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योजयिष्यसि योजय् pos=v,p=2,n=s,l=lrt