Original

तथैव द्रौपदेयानामन्येषां सुहृदामपि ।वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥ १३ ॥

Segmented

तथा एव द्रौपदेयानाम् अन्येषाम् सुहृदाम् अपि वधम् संस्मृत्य ते वीरा न अति प्रमनस् ऽभवन्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
द्रौपदेयानाम् द्रौपदेय pos=n,g=m,c=6,n=p
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
वधम् वध pos=n,g=m,c=2,n=s
संस्मृत्य संस्मृ pos=vi
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
pos=i
अति अति pos=i
प्रमनस् प्रमनस् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan