Original

परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् ।तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः ॥ ११ ॥

Segmented

परम् निर्वेदम् अगमन् चिन्तयन्तः नराधिपम् तत् च ज्ञाति-वधम् घोरम् संस्मरन्तः पुनः पुनः

Analysis

Word Lemma Parse
परम् पर pos=n,g=m,c=2,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
चिन्तयन्तः चिन्तय् pos=va,g=m,c=1,n=p,f=part
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
संस्मरन्तः संस्मृ pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i