Original

ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः ।हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ।उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥ २३ ॥

Segmented

ततो रात्र्याम् व्यतीतायाम् कृत-पूर्वाह्णिक-क्रियाः हुत्वा अग्निम् विधिवत् सर्वे प्रययुः ते यथाक्रमम् उदक्-मुखाः निरीक्षन्त उपवास-परायणाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
कृत कृ pos=va,comp=y,f=part
पूर्वाह्णिक पूर्वाह्णिक pos=a,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p
हुत्वा हु pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
यथाक्रमम् यथाक्रमम् pos=i
उदक् उदञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
निरीक्षन्त निरीक्ष् pos=v,p=3,n=p,l=lat
उपवास उपवास pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p