Original

धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ।ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥ १६ ॥

Segmented

धृतराष्ट्रः तु तेन अह्ना गत्वा सु महत् अन्तरम् ततो भागीरथी-तीरे निवासम् अकरोत् प्रभुः

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=n,c=3,n=s
अह्ना अहर् pos=n,g=n,c=3,n=s
गत्वा गम् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
ततो ततस् pos=i
भागीरथी भागीरथी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s